|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.99. अध्यायः 099
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति जनकराजेन स्वयोधानां स्वर्गनरकप्रदर्शनेय युद्धे प्रोत्साहनकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-99-0x(5600)(68650)
अत्राप्युदाहरन्तीम-तिहासं पुरातनम्।
प्रतर्दनो मैथिलश्च संग्रामं यत्र चक्रतुः॥ 12-99-1(68651)
यज्ञोपवीती संग्रामे जनको मिथिलाधिपः।
योधानुद्धर्षयामास तन्निबोध युधिष्ठिर॥ 12-99-2(68652)
जनको मैथिलो राजा महात्मा सर्वतत्त्ववित्।
योधानां दर्शयामास स्वर्गं नरकमेव च॥ 12-99-3(68653)
अभीरूणामिमे लोका भास्वन्तो हन्त पश्यत।
पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः॥ 12-99-4(68654)
इमे पलायमानानां नरकाः प्रत्युपस्थिताः।
अकीर्तिः शाश्वती चैव यतितव्यमनन्तरम्॥ 12-99-5(68655)
तान्दृष्ट्वाऽरीन्विजयत भूत्वा संत्यागबुद्धयः।
नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः॥ 12-99-6(68656)
त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम्।
इत्युक्तास्ते नृपतिना योधाः परपुरंजय॥ 12-99-7(68657)
अजयन्त रणे शत्रून्हर्षयन्तो नरेश्वरम्।
तस्मात्त्यक्तात्मना नित्यं स्थातव्यं रणमूर्धनि॥ 12-99-8(68658)
गजानां रथिनो मध्ये रथानामनुसादिनः।
सादिनामन्तरे स्थाप्यं पादातमपि दंशितम्॥ 12-99-9(68659)
य एवं व्यूहते राजा स नित्यं जयते रिपून्।
तस्मदितद्विधातव्यं नित्यमेव युधिष्ठिर॥ 12-99-10(68660)
स्वर्गे सुकृतमिच्छन्तः सुयुद्धेनातिमन्यवः।
क्षोभयेयुरनीकानि सागरं मकरा यथा॥ 12-99-11(68661)
हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम्।
तेषां च भूमिं रक्षेयुर्भग्नान्नात्यनुसारयेत्॥ 12-99-12(68662)
पुनरावर्तमानानां निराशानां च जीविते।
वेगः सुदुःसहो राजंस्तस्मान्नात्यनुसारयेत्॥ 12-99-13(68663)
न हि प्रहर्तुमिच्छन्ति शूराः प्रद्रवतो भयात्।
तस्मात्पलायमानानां कुर्यान्नात्यनुसारणम्॥ 12-99-14(68664)
चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि।
अपाणयः पाणिमतामन्नं शूरस्य कातराः॥ 12-99-15(68665)
समानपृष्ठोदरपाणिपादाः
पश्चाच्छरं भीरवोऽनुव्रजन्ति।
अतो भयार्ताः प्रणिपत्य भूयः
कृत्वाञ्जलीनुपतिष्ठन्ति शूरान्॥ 12-99-16(68666)
शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सद।
तस्मात्सर्वेषु लोकेषु शूरः संमानमर्हति॥ 12-99-17(68667)
न हि शौर्यात्परं किंचिन्त्रिषु लोकेषु विद्यते।
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम्॥ ॥ 12-99-18(68668)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनशततमोऽध्यायः॥ 99॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-99-1 अत्र शूरप्रोत्साहने विषये॥ 12-99-3 दर्शयामास योगबलेन॥ 12-99-5 पतितव्यमनन्तरमिति ड. द. पाठः॥ 12-99-9 गजानां मध्ये रथिनः स्थाप्याः॥ 12-99-12 नात्यनुसारेयातिद्रावयेत् परावृत्तिभयात्॥ 12-99-13 तदेवाह पुनरिति॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|